(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.256. अध्यायः 256
Mahabharata - Vana Parva - Chapter Topics
दुर्योधनेन राजसूययाजनं प्रार्थितैर्ब्राह्मणैर्हेतूक्त्या तन्निपेधनपूर्वकं तप्रति यज्ञान्तरकरणनियोजनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-256-0x(2627)(25827)
जित्वा तु पृथिवीं राजन्सूतपुत्रो जनाधिप।
अब्रवीत्परवीरघ्नो दुर्योधनमिदं वचः ॥ 3-256-1(25828)
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव।
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिंदम ॥ 3-256-2(25829)
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम।
तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥ 3-256-3(25830)
वैशम्पायन उवाच। 3-256-4x(2628)
एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत्पुनः।
न किंचिद्दुर्लभं तस्य यस् त्वं पुरुषर्षभ ॥ 3-256-4(25831)
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः।
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥ 3-256-5(25832)
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा।
कमम स्पृहा समुत्पन्ना तां संपादय सूतज ॥ 3-256-6(25833)
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्।
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥ 3-256-7(25834)
आहूयन्तां द्विजवराः संभाराश्च यथाविधि।
संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥ 3-256-8(25835)
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः।
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ॥ 3-256-9(25836)
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः।
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥ 3-256-10(25837)
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशांपते।
पुरोहितं समानाय्य वचनं चेदमब्रवीत् ॥ 3-256-11(25838)
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्।
आहरस्व यथाशास्त्रं यथान्यायं यथाक्रमम् ॥ 3-256-12(25839)
स एवमुक्तो नृपतिमुवाच द्विजसत्तमः ॥ 3-256-13(25840)
`ब्राह्मणैः सहितो राजन्ये तत्रासन्समागताः'।
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे।
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥ 3-256-14(25841)
दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप।
अतश्चापि विरुद्धस्ते क्रतुरेणष नृपोत्तमः ॥ 3-256-15(25842)
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो।
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥ 3-256-16(25843)
य इमे पृथिवीपालाः करदास्तव पार्थिव।
ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम् ॥ 3-256-17(25844)
तेन ते क्रियतामद्यलाङ्गलं नृपसत्तम।
यज्ञवाटस् ते भूमिः कृष्यतां तेन भारत ॥ 3-256-18(25845)
तत्र यज्ञो नृपश्रेष्टः प्रभूतान्नः सुसंस्कृतः।
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥ 3-256-19(25846)
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः।
एतेन नेष्टवान्कश्चिदृतेविष्णुं पुरातनम् ॥ 3-256-20(25847)
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः।
अस्माकं रोचते चैव श्रेयश्च तव भारत ॥ 3-256-21(25848)
निर्विघ्नश्च भवत्येष सफला स्यात्स्पृहा तव।
`तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम्' ॥ 3-256-22(25849)
एवमुकत्स्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः।
कर्णं च सौबलं चैव भ्रातॄश्चैवेदमब्रवीत् ॥ 3-256-23(25850)
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः।
रोचते यदि युष्माकं तस्मात्प्रब्रूत माचिरम् ॥ 3-256-24(25851)
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्।
संदिदेश ततोराजाव्यापारस्थान्यथाक्रमम् ॥ 3-256-25(25852)
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः।
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥ 3-256-26(25853)

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-256-17 कृतं घटितमलंकारादिरूपम्। अकृतमन्यत् ॥ 3-256-25 व्यापारस्थान् शिल्पिनः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.